-->

Oct 16, 2026

མནྡ་སཽ་རའི་གྲགས་པ་ཆོས་ལྡན་གྱི་རྡོ་བརྐོས་ཡི་གེ


མནྡ་སཽར་གྲགས་པ་ཆོས་ལྡན་གྱི་རྡོ་བརྐོས་ཡི་གེ
(དུས་རབས་༦པ)
གུཔྟའི་ཡིག་གཟུགས།



1.सिद्धं स जयति जगतां पतिः पिनाकी स्मितरवगीतिषु यस्य दन्तकान्तिः। द्युतिरिव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्यदश्च विश्वं॥ स्वयम्भूर्भूतानां स्थितिलय[समु]-

2.त्पत्तिविधिषु प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये। पितृत्वं चानीतो जगति गरिमाणं गमयता स शम्भुर्भूयान्सि प्रतिदिशतु भद्राणि भव[तां]॥ फणमणिगुरुभा(र्)[आक्क्]र्[आ]-

3.न्तिदूरावनम्रं स्थगयति रुचमिन्दोर्म्मण्डलं यस्य मूर्ध्नां स शिरसि विनिबध्नन्रन्ध्रिणीमस्थिमालां सृजतु भवसृजो वः क्लेशभङ्गं भुजङ्गः॥षष्ट्या सहस्रैः सगरात्मजानां खात[ः] 

4. खतुल्यां रुचमादधानः। अस्योदपानाधिपतेश्चिराय यशान्सि पायात्पयसां विधाता॥ अथ जयति जनेन्द्रः श्रीयशोधर्म्मनामा प्रमदवनमिवान्तः शत्त्रुसैन्यं विगाह्य व्रण

5. किसलयभङ्गैर्य्योङ्गभूषां विधत्ते तरुणतरुलतावद्वीरकीर्त्तीर्व्विनाम्य॥ आजौ जिती विजयते जगतीं पुनश्च श्रीविष्णुवर्द्धननराधिपतिः स एव। प्रख्यात औलिकरलाञ्छन आत्म-

6. वङ्शो येनोदितोदितपदं गमितो गरीयः॥ प्राचो नृपान्सुबृहतश्च बहूनुदीचः साम्ना युधा च वशगान्प्रविधाय येन। नामापरं जगति कान्तमदो दुरापं राजाधिराजपरमे-

7.श्वर इत्युदूढं॥ स्निग्धश्यामाम्बुदाभैः स्थगितदिनकृतो यज्वनामाज्यधूमैरम्भो मेघ्यं मघोनावधिषु विदधता गाढसम्पन्नसस्याः। संहर्षाद्वाणिनीनां कररभसहृतो-

8.द्यानचूताङ्कुराग्रा राजन्वन्तो रमन्ते भुजविजितभुवा भूरयो येन देशाः॥ यस्योत्केतुभिरुन्मदद्विपकरव्याविद्धलोध्रद्रुमैरुद्धूतेन वनाध्वनि ध्वनिनदद्विन्ध्याद्रिरन्ध्रैर्ब्बलैः बाले-

9.यच्छविधूसरेण रजसा मन्दाङ्शु संलक्ष्यते पर्य्यावृत्तशिखण्डिचन्द्रक इव ध्यामं रवेर्म्मण्डलम्॥ तस्य प्रभोर्व्वङ्शकृतां नृपाणां पादाश्रयाद्विश्रुतपुण्यकीर्त्तिः। भृत्यः स्वनैभृत्यजिता-

10. रिषट्क आसीद्वशीयान्किल षष्ठिदत्तः॥ हिमवत इव गाङ्गस्तुङ्गनम्रः प्रवाहः शशभृत इव रेवावारिराशिः प्रथीयाण्परमभिगमनीयः शुद्धिमानन्ववायो यत उदितगरि-

11. म्णस्तायते नैगमानां॥ तस्यानुकूलः कुलजात्कलत्त्रात्सुतः प्रसूतो यशसां प्रसूतिः। हरेरिवाङ्शं वशिनं वरार्हं वराहदासं यमुदाहरन्ति॥ सुकृतिविषयितुङ्गं रूढमूलं 

12. धरायां स्थितिमपगतभङ्गां स्थेयसीमादधानम् गुरुशिखरमिवाद्रेस्तत्कुलं स्वात्मभूत्या रविरिव रविकीर्त्तिः सुप्रकाशं व्यधत्त॥ 

विभ्रता शुभ्रमभ्रङ्शिस्मार्त्तं वर्त्मोचितं सतां न विसंव्वा-

13. दिता येनकलावपि कुलीनता॥ धुतधीदिधितिध्वान्तान्हविर्भुज इवाध्वराण्भानुगुप्ता ततः साध्वीतनयांस्त्रीनजीजनट्॥ भगवद्दोष इत्यासीत्प्रथमः कार्य्यवर्त्मसु। आल-

14. म्बनं बान्धवानामन्धकानामिवोद्धवः॥ बहुनयविधिवेधा गह्वरे प्यर्थमार्ग्गे विदुर इव विदूरं प्रेक्षया प्रेक्षमाणः।  वचनरचनबन्धे संस्कृतप्राकृते यः कविभिरुदि-

15. तरागं गीयत्ते गीरभिज्ञैः॥ प्रणिधिदृगनुगन्त्रा यस्य बौद्धेन चाक्ष्णा न निशि तनु दवीयो वास्त्यदृष्टं धरित्त्र्यां पदमुदयि दधानो नन्तरं तस्य चाभूत्स भयमभयदत्तो ना(म)-

16. (वि)[?घ्न](?न्) प्(राजानां॥ विन्ध्यस्यावन्ध्यकर्म्मा शिखरतटपतत्पाण्डुरेवाम्बुराशेर्ग्गोलाङ्गूलैः सहेलं प्लुतिनमिततरोः पारियात्त्रस्य चाद्रेः। आ सिन्धोरन्तरालं निजशुचिसचिवाद्ध्या-

17. सितानेकदेशं राजस्थानीयवृत्या सुरगुरुरिव यो वर्ण्णिनां भूतयेपात्॥ विहितसकलवर्ण्णासङ्करं शान्तडिम्बं कृत इव कृतमेतद्येन राज्यं निराधि। स धुरमयमिदानीं 

18. दोषकुम्भस्य सूनुर्गुरु वहति तदूढां धर्म्मतो धर्म्मदोषः॥ स्वसुखमनभिवाच्छन्दुर्ग्गमेद्ध्वन्यसङ्गां धुरमतिगुरुभारां यो दधद्भर्तुरर्थे। वहति नृपतिवेषं केवलं लक्ष्ममात्त्रं 

19. वलिनमिव विलम्बं कम्बलं बाहुलेयः॥ उपहितहितरक्षामण्डनो जातिरत्नैर्भुज इव पृथुलांसस्तस्य दक्षः कनीयाण्महदिदमुदपानं खानयामास बिभ्र-

20. च्छ्रुतिहृदयनितान्तानन्दि निर्द्दोषनाम॥ 

सुखाश्रेयच्छायं परिणतिहितस्वादुफलदं गजेन्द्रेणारुग्णं द्रुममिव कृतान्तेन बलिना। पितृव्यं प्रोद्दिश्य प्रियमभयदत्तं पृ-

21. थुधिया प्रथीयस्तेनेदं कुशलमिह कर्म्मोपरचितं॥ पञ्चसु शतेषु शरदां यातेष्वेकान्ननवतिसहितेषु। मालवगणस्थितिवशात्कालज्ञानाय लिखितेषु॥ य-

22.स्मिन्काले कलमृदुगिरां कोकिलानां प्रलापा भिन्दन्तीव स्मरशरनिभाः प्रोषितानां मनांसि। भृङ्गालीनां ध्वनिरनुवनं भारमन्द्रश्च यस्मिन्नाधूतज्यं धनुरिव नदच्छ्रूयते पुष्प-

23. केतोः॥ प्रियतमकुपितानां रामयन्बद्धरागं किसलयमिव मुग्धं मानसं मानिनीनां उपनयति नभस्वान्मानभङ्गाय यस्मिन्कुसुमसमयमासे तत्त्र निर्म्मापितो यं॥ 

24. यावत्तुङ्गैरुदन्वान्किरणसमुदयासङ्गकान्तं तरङ्गैरालिङ्गन्निन्दुबिम्बं गुरुभिरिव भुजैः संविधत्ते सुहृत्तां बिभ्रत्सौधान्तलेखावलयपरिगतिं मुण्डमालामिवायं सत्कूपस्तावदा-

25. स्ताममृतसमरसस्वच्छविष्यन्दिताम्बुः॥ धीमां दक्षो दक्षिणः सत्यसन्धो ह्रीमांच्छूरो वृद्धसेवी कृतज्ञः। बद्धोत्साहः स्वामिकार्य्येष्वखेदी निर्द्दोषो यं पातु धर्म्मं चिराय उत्कीर्ण्णा गोविन्देन॥

 


1.སིདྡྷཾ ས ཛཡཏི ཛགཏཱཾ པཏིཿ པིནཱཀཱི སྨིཏརབགཱིཏིཥུ ཡསྱ དནྟཀཱནྟིཿ། དྱུཏིརིབ ཏཌིཏཱཾ ནིཤི སྥུརནྟཱི ཏིརཡཏི ཙ སྥུཊཡཏྱདཤྩ བིཤྭཾ༎ སྭཡམྦྷཱུརྦྷཱུཏཱནཱཾ སྠིཏིལཡ[སམུ]-

2.ཏྤཏྟིབིདྷིཥུ པྲཡུཀྟོ ཡེནཱཛྙཱཾ བཧཏི བྷུབནཱནཱཾ བིདྷྲྀཏཡེ། པིཏྲྀཏྭཾ ཙཱནཱིཏོ ཛགཏི གརིམཱཎཾ གམཡཏཱ ས ཤམྦྷུརྦྷཱུཡཱནྶི པྲཏིདིཤཏུ བྷདྲཱཎི བྷབ[ཏཱཾ]༎ ཕཎམཎིགུརུབྷཱ(ར)[ཨཱཀྐ]ར[ཨཱ]-

3.ནྟིདཱུརཱབནམྲཾ སྠགཡཏི རུཙམིནྡོརྨྨཎྜལཾ ཡསྱ མཱུརྡྷྣཱཾ ས ཤིརསི བིནིབདྷྣནྲནྡྷྲིཎཱིམསྠིམཱལཱཾ སྲྀཛཏུ བྷབསྲྀཛོ བཿ ཀླེཤབྷངྒཾ བྷུཛངྒཿ༎ཥཥྚྱཱ སཧསྲཻཿ སགརཱཏྨཛཱནཱཾ ཁཱཏ[ཿ ] 

4. ཁཏུལྱཱཾ རུཙམཱདདྷཱནཿ། ཨསྱོདཔཱནཱདྷིཔཏེཤྩིརཱཡ ཡཤཱནྶི པཱཡཱཏྤཡསཱཾ བིདྷཱཏཱ༎ ཨཐ ཛཡཏི ཛནེནྡྲཿ ཤྲཱིཡཤོདྷརྨྨནཱམཱ པྲམདབནམིབཱནྟཿ ཤཏྟྲུསཻནྱཾ བིགཱཧྱ བྲཎ

5. ཀིསལཡབྷངྒཻཪྻྱོངྒབྷཱུཥཱཾ བིདྷཏྟེ ཏརུཎཏརུལཏཱབདྭཱིརཀཱིརྟྟཱིརྦྦིནཱམྱ༎ ཨཱཛཽ ཛིཏཱི བིཛཡཏེ ཛགཏཱིཾ པུནཤྩ ཤྲཱིབིཥྞུབརྡྡྷནནརཱདྷིཔཏིཿ ས ཨེབ། པྲཁྱཱཏ ཨཽལིཀརལཱཉྪན ཨཱཏྨ-

6. བངྴོ ཡེནོདིཏོདིཏཔདཾ གམིཏོ གརཱིཡཿ ༎ པྲཱཙོ ནྲྀཔཱནྶུབྲྀཧཏཤྩ བཧཱུནུདཱིཙཿ སཱམྣཱ ཡུདྷཱ ཙ བཤགཱནྤྲབིདྷཱཡ ཡེན། ནཱམཱཔརཾ ཛགཏི ཀཱནྟམདོ དུརཱཔཾ རཱཛཱདྷིརཱཛཔརམེ-

7.ཤྭར ཨིཏྱུདཱུཌྷཾ༎ སྣིགྡྷཤྱཱམཱམྦུདཱབྷཻཿ སྠགིཏདིནཀྲྀཏོ ཡཛྭནཱམཱཛྱདྷཱུམཻརམྦྷོ མེགྷྱཾ མགྷོནཱབདྷིཥུ བིདདྷཏཱ གཱཌྷསམྤནྣསསྱཱཿ། སཾཧརྵཱདྭཱཎིནཱིནཱཾ ཀརརབྷསཧྲྀཏོ-

8.དྱཱནཙཱུཏཱངྐུརཱགྲཱ རཱཛནྭནྟོ རམནྟེ བྷུཛབིཛིཏབྷུབཱ བྷཱུརཡོ ཡེན དེཤཱཿ ༎ ཡསྱོཏྐེཏུབྷིརུནྨདདྭིཔཀརབྱཱབིདྡྷལོདྷྲདྲུམཻརུདྡྷཱུཏེན བནཱདྷྭནི དྷྭནིནདདྭིནྡྷྱཱདྲིརནྡྷྲཻརྦྦལཻཿ བཱལེ-

9.ཡཙྪབིདྷཱུསརེཎ རཛསཱ མནྡཱངྴུ སཾལཀྵྱཏེ པཪྻྱཱབྲྀཏྟཤིཁཎྜིཙནྡྲཀ ཨིབ དྷྱཱམཾ རབེརྨྨཎྜལམ྄༎ ཏསྱ པྲབྷོརྦྦངྴཀྲྀཏཱཾ ནྲྀཔཱཎཱཾ པཱདཱཤྲཡཱདྭིཤྲུཏཔུཎྱཀཱིརྟྟིཿ ། བྷྲྀཏྱཿ སྭནཻབྷྲྀཏྱཛིཏཱ-

10. རིཥཊྐ ཨཱསཱིདྭཤཱིཡཱནྐིལ ཥཥྛིདཏྟཿ ༎ ཧིམབཏ ཨིབ གཱངྒསྟུངྒནམྲཿ པྲབཱཧཿ ཤཤབྷྲྀཏ ཨིབ རེབཱབཱརིརཱཤིཿ པྲཐཱིཡཱཎྤརམབྷིགམནཱིཡཿ ཤུདྡྷིམཱནནྭབཱཡོ ཡཏ ཨུདིཏགརི-

11. མྞསྟཱཡཏེ ནཻགམཱནཱཾ༎ ཏསྱཱནུཀཱུལཿ ཀུལཛཱཏྐལཏྟྲཱཏྶུཏཿ པྲསཱུཏོ ཡཤསཱཾ པྲསཱུཏིཿ། ཧརེརིབཱངྴཾ བཤིནཾ བརཱརྷཾ བརཱཧདཱསཾ ཡམུདཱཧརནྟི༎ སུཀྲྀཏིབིཥཡིཏུངྒཾ རཱུཌྷམཱུལཾ

12. དྷརཱཡཱཾ སྠིཏིམཔགཏབྷངྒཱཾ སྠེཡསཱིམཱདདྷཱནམ གུརུཤིཁརམིབཱདྲེསྟཏྐུལཾ སྭཱཏྨབྷཱུཏྱཱ རབིརིབ རབིཀཱིརྟྟིཿ སུཔྲཀཱཤཾ བྱདྷཏྟ༎ བིབྷྲཏཱ ཤུབྷྲམབྷྲངྴིསྨཱརྟྟཾ བརྟྨོཙིཏཾ སཏཱཾ ན བིསཾབྦཱ-

13. དིཏཱ ཡེནཀལཱབཔི ཀུལཱིནཏཱ༎ དྷུཏདྷཱིདིདྷིཏིདྷྭཱནྟཱནྷབིརྦྷུཛ ཨིབཱདྷྭརཱཎྦྷཱནུགུཔྟཱ ཏཏཿ སཱདྷྭཱིཏནཡཱཾསྟྲཱིནཛཱིཛནཊ༎ བྷགབདྡོཥ ཨིཏྱཱསཱིཏྤྲཐམཿ ཀཱཪྻྱབརྟྨསུ། ཨཱལ-

14. མྦནཾ བཱནྡྷབཱནཱམནྡྷཀཱནཱམིབོདྡྷབཿ༎ བཧུནཡབིདྷིབེདྷཱ གཧྭརེ པྱརྠམཱརྒྒེ བིདུར ཨིབ བིདཱུརཾ པྲེཀྵཡཱ པྲེཀྵམཱཎཿ།  བཙནརཙནབནྡྷེ སཾསྐྲྀཏཔྲཱཀྲྀཏེ ཡཿ ཀབིབྷིརུདི-

15. ཏརཱགཾ གཱིཡཏྟེ གཱིརབྷིཛྙཻཿ༎ པྲཎིདྷིདྲྀགནུགནྟྲཱ ཡསྱ བཽདྡྷེན ཙཱཀྵྞཱ ན ནིཤི ཏནུ དབཱིཡོ བཱསྟྱདྲྀཥྚཾ དྷརིཏྟྲྱཱཾ པདམུདཡི དདྷཱནོ ནནྟརཾ ཏསྱ ཙཱབྷཱུཏྶ བྷཡམབྷཡདཏྟོ ནཱ(མ)-

16. (བི)[?གྷྣ](ན) (པ)རཱཛཱནཱཾ༎ བིནྡྷྱསྱཱབནྡྷྱཀརྨྨཱ ཤིཁརཏཊཔཏཏྤཱཎྜུརེབཱམྦུརཱཤེརྒྒོལཱངྒཱུལཻཿ  སཧེལཾ པླུཏིནམིཏཏརོཿ པཱརིཡཱཏྟྲསྱ ཙཱདྲེཿ ། ཨཱ སིནྡྷོརནྟརཱལཾ ནིཛཤུཙིསཙིབཱདྡྷྱཱ-

17. སིཏཱནེཀདེཤཾ རཱཛསྠཱནཱིཡབྲྀཏྱཱ སུརགུརུརིབ ཡོ བརྞྞིནཱཾ བྷཱུཏཡེ པཱཊ༎ བིཧིཏསཀལབརྞྞཱསངྐརཾ ཤཱནྟཌིམྦཾ ཀྲྀཏ ཨིབ ཀྲྀཏམེཏདྱེན རཱཛྱཾ ནིརཱདྷི། ས དྷུརམཡམིདཱནཱིཾ

18. དོཥཀུམྦྷསྱ སཱུནུརྒུརུ བཧཏི ཏདཱུཌྷཱཾ དྷརྨྨཏོ དྷརྨྨདོཥཿ ༎ སྭསུཁམནབྷིབཱཙྪནྡུརྒྒམེདྡྷྭནྱསངྒཱཾ དྷུརམཏིགུརུབྷཱརཱཾ ཡོ དདྷདྦྷརྟུརརྠེ། བཧཏི ནྲྀཔཏིབེཥཾ ཀེབལཾ ལཀྵྨམཱཏྟྲཾ 

19. བལིནམིབ བིལམྦཾ ཀམྦལཾ བཱཧུལེཡཿ  ༎ ཨུཔཧིཏཧིཏརཀྵཱམཎྜནོ ཛཱཏིརཏྣཻརྦྷུཛ ཨིབ པྲྀཐུལཱཾསསྟསྱ དཀྵཿ ཀནཱིཡཱཎྨཧདིདམུདཔཱནཾ ཁཱནཡཱམཱས བིབྷྲ-

20. ཙྪྲུཏིཧྲྀདཡནིཏཱནྟཱནནྡི ནིརྡྡོཥནཱམ༎ སུཁཱཤྲེཡཙྪཱཡཾ པརིཎཏིཧིཏསྭཱདུཕལདཾ གཛེནྡྲེཎཱརུགྞཾ དྲུམམིབ ཀྲྀཏཱནྟེན བལིནཱ། པིཏྲྀབྱཾ པྲོདྡིཤྱ པྲིཡམབྷཡདཏྟཾ པྲྀ-

21. ཐུདྷིཡཱ པྲཐཱིཡསྟེནེདཾ ཀུཤལམིཧ ཀརྨྨོཔརཙིཏཾ༎ པཉྩསུ ཤཏེཥུ ཤརདཱཾ ཡཱཏེཥྭེཀཱནྣནབཏིསཧིཏེཥུ། མཱལབགཎསྠིཏིབཤཱཏྐཱལཛྙཱནཱཡ ལིཁིཏེཥུ༎ ཡ-

22.སྨིནྐཱལེ ཀལམྲྀདུགིརཱཾ ཀོཀིལཱནཱཾ པྲལཱཔཱ བྷིནྡནྟཱིབ སྨརཤརནིབྷཱཿ པྲོཥིཏཱནཱཾ མནཱཾསི། བྷྲྀངྒཱལཱིནཱཾ དྷྭནིརནུབནཾ བྷཱརམནྡྲཤྩ ཡསྨིནྣཱདྷཱུཏཛྱཾ དྷནུརིབ ནདཙྪྲཱུཡཏེ པུཥྤ- 

23. ཀེཏོཿ ༎ པྲིཡཏམཀུཔིཏཱནཱཾ རཱམཡནྦདྡྷརཱགཾ ཀིསལཡམིབ མུགྡྷཾ མཱནསཾ མཱནིནཱིནཱཾ ཨུཔནཡཏི ནབྷསྭཱནྨཱནབྷངྒཱཡ ཡསྨིནྐུསུམསམཡམཱསེ ཏཏྟྲ ནིརྨྨཱཔིཏོ ཡཾ༎ 

24. ཡཱབཏྟུངྒཻརུདནྭཱནྐིརཎསམུདཡཱསངྒཀཱནྟཾ ཏརངྒཻརཱལིངྒནྣིནྡུབིམྦཾ གུརུབྷིརིབ བྷུཛཻཿ སཾབིདྷཏྟེ སུཧྲྀཏྟཱཾ བིབྷྲཏྶཽདྷཱནྟལེཁཱབལཡཔརིགཏིཾ མུཎྜམཱལཱམིབཱཡཾ སཏྐཱུཔསྟཱབདཱ-

25. སྟཱམམྲྀཏསམརསསྭཙྪབིཥྱནྡིཏཱམྦུཿ ༎ དྷཱིམཱཾ དཀྵོ དཀྵིཎཿ སཏྱསནྡྷོ ཧྲཱིམཱཾཙྪཱུརོ བྲྀདྡྷསེབཱི ཀྲྀཏཛྙཿ། བདྡྷོཏྶཱཧཿ སྭཱམིཀཱཪྻྱེཥྭཁེདཱི ནིརྡྡོཥོ ཡཾ པཱཏུ དྷརྨྨཾ ཙིརཱཡ ཨུཏྐཱིརྞྞཱ གོབིནྡེན༎

པར་དག་མ། 

 

सिद्धं!

स जयति जगतां पतिः पिनाकी स्मितरवगीतिषु यस्य दन्तकान्तिः। 

द्युतिरिव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्यदश्च विश्वं॥ 

 

स्वयम्भूर्भूतानां स्थितिलय[समु]त्पत्तिविधिषु प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये। 

पितृत्वं चानीतो जगति गरिमाणं गमयता स शम्भुर्भूयान्सि प्रतिदिशतु भद्राणि भव[तां]॥ 

 

फणमणिगुरुभा(र्)[आक्क्]र्[आ]न्तिदूरावनम्रं स्थगयति रुचमिन्दोर्म्मण्डलं यस्य मूर्ध्नां।

 स शिरसि विनिबध्नन्रन्ध्रिणीमस्थिमालां सृजतु भवसृजो वः क्लेशभङ्गं भुजङ्गः॥

 

षष्ट्या सहस्रैः सगरात्मजानां खातः खतुल्यां रुचमादधानः। 

अस्योदपानाधिपतेश्चिराय यशांसि पायात्पयसां विधाता॥ 

 

अथ जयति जनेन्द्रः श्रीयशोधर्म्मनामा प्रमदवनमिवान्तः शत्त्रुसैन्यं विगाह्य।

 व्रणकिसलयभङ्गैर्य्योङ्गभूषां विधत्ते तरुणतरुलतावद्वीरकीर्त्तीर्व्विनाम्य॥ 

 

आजौ जिती विजयते जगतीं पुनश्च श्रीविष्णुवर्द्धननराधिपतिः स एव। 

प्रख्यात औलिकरलाञ्छन आत्मवङ्शो येनोदितोदितपदं गमितो गरीयः॥ 

 

प्राचो नृपान्सुबृहतश्च बहूनुदीचः साम्ना युधा च वशगान्प्रविधाय येन। 

नामापरं जगति कान्तमदो दुरापं राजाधिराजपरमेश्वर इत्युदूढं॥ 

 

स्निग्धश्यामाम्बुदाभैः स्थगितदिनकृतो यज्वनामाज्यधूमैरम्भो मेघ्यं मघोनावधिषु विदधता गाढसम्पन्नसस्याः। 

संहर्षाद्वाणिनीनां कररभसहृतोद्यानचूताङ्कुराग्रा राजन्वन्तो रमन्ते भुजविजितभुवा भूरयो येन देशाः॥ 

 

यस्योत्केतुभिरुन्मदद्विपकरव्याविद्धलोध्रद्रुमैरुद्धूतेन वनाध्वनि ध्वनिनदद्विन्ध्याद्रिरन्ध्रैर्ब्बलैः।

बालेयच्छविधूसरेण रजसा मन्दाङ्शु संलक्ष्यते पर्य्यावृत्तशिखण्डिचन्द्रक इव ध्यामं रवेर्म्मण्डलम्॥ 

 

तस्य प्रभोर्व्वङ्शकृतां नृपाणां पादाश्रयाद्विश्रुतपुण्यकीर्त्तिः। 

भृत्यः स्वनैभृत्यजितारिषट्क आसीद्वशीयान्किल षष्ठिदत्तः॥ 

 

हिमवत इव गाङ्गस्तुङ्गनम्रः प्रवाहः शशभृत इव रेवावारिराशिः प्रथीयान्।

परमभिगमनीयः शुद्धिमानन्ववायो यत उदितगरिम्णस्तायते नैगमानां॥ 

 

तस्यानुकूलः कुलजात्कलत्रात्सुतः प्रसूतो यशसां प्रसूतिः। 

हरेरिवाङ्शं वशिनं वरार्हं वराहदासं यमुदाहरन्ति॥ 

 

सुकृतिविषयितुङ्गं रूढमूलं धरायां स्थितिमपगतभङ्गां स्थेयसीमादधानम्।

गुरुशिखरमिवाद्रेस्तत्कुलं स्वात्मभूत्या रविरिव रविकीर्त्तिः सुप्रकाशं व्यधत्त॥ 

 

विभ्रता शुभ्रमभ्रङ्शि स्मार्त्तं वर्त्मोचितं सतां।

न विसंव्वादिता येन कलावपि कुलीनता॥ 

 

धुतधीदिधितिध्वान्तान्हविर्भुज इवाध्वरे।

भानुगुप्ता ततः साध्वी तनयांस्त्रीनजीजनत्॥ ?

 

भगवद्दोष इत्यासीत्प्रथमः कार्य्यवर्त्मसु। 

आलम्बनं बान्धवानामन्धकानामिवोद्धवः॥ 

 

बहुनयविधिवेधा गह्वरेऽप्यर्थमार्ग्गे विदुर इव विदूरं प्रेक्षया प्रेक्षमाणः।  

वचनरचनबन्धे संस्कृतप्राकृते यः कविभिरुदितरागं गीयत्ते गीरभिज्ञैः॥ 

 

प्रणिधिदृगनुगन्त्रा यस्य बौद्धेन चाक्ष्णा न निशि तनु दवीयो वास्त्यदृष्टं धरित्र्याम्।

पदमुदयि दधानोऽनन्तरं तस्य चाभूत्स भयमभयदत्तो नाम विघ्नन्प्रजानां।।

 

विन्ध्यस्यावन्ध्यकर्म्मा शिखरतटपतत्पाण्डुरेवाम्बुराशेर्ग्गोलाङ्गूलैः सहेलं प्लुतिनमिततरोः पारियात्रस्य चाद्रेः।

आ सिन्धोरन्तरालं निजशुचिसचिवाद्ध्यासितानेकदेशं राजस्थानीयवृत्या सुरगुरुरिव यो वर्ण्णिनां भूतयेऽपात्॥ 

 

विहितसकलवर्ण्णासङ्करं शान्तडिम्बं कृत इव कृतमेतद्येन राज्यं निराधि। 

स धुरमयमिदानीं दोषकुम्भस्य सूनुर्गुरु वहति तदूढां धर्म्मतो धर्म्मदोषः॥ 

 

स्वसुखमनभिवाच्छन्दुर्ग्गमेऽघ्वन्यसङ्गां धुरमतिगुरुभारां यो दधद्भर्तुरर्थे। 

वहति नृपतिवेषं केवलं लक्ष्ममात्रं वलिनमिव विलम्बं कम्बलं बाहुलेयः॥ 

 

उपहितहितरक्षामण्डनो जातिरत्नैर्भुज इव पृथुलांसस्तस्य दक्षः कनीयान्।

महदिदमुदपानं खानयामास बिभ्रच्छ्रुतिहृदयनितान्तानन्दि निर्द्दोषनाम॥ 

 

सुखाश्रेयच्छायं परिणतिहितस्वादुफलदं गजेन्द्रेणारुग्णं द्रुममिव कृतान्तेन बलिना। 

पितृव्यं प्रोद्दिश्य प्रियमभयदत्तं पृथुधिया प्रथीयस्तेनेदं कुशलमिह कर्म्मोपरचितं॥ 

 

पञ्चसु शतेषु शरदां यातेष्वेकान्ननवतिसहितेषु। 

मालवगणस्थितिवशात्कालज्ञानाय लिखितेषु॥ 

 

यस्मिन्काले कलमृदुगिरां कोकिलानां प्रलापा भिन्दन्तीव स्मरशरनिभाः प्रोषितानां मनांसि। 

भृङ्गालीनां ध्वनिरनुवनं भारमन्द्रश्च यस्मिन्नाधूतज्यं धनुरिव नदच्छ्रूयते पुष्पकेतोः॥ 

 

प्रियतमकुपितानां रामयन्बद्धरागं किसलयमिव मुग्धं मानसं मानिनीनाम्।

उपनयति नभस्वान्मानभङ्गाय यस्मिन्कुसुमसमयमासे तत्र निर्म्मापितोऽयं॥ 

 

यावत्तुङ्गैरुदन्वान्किरणसमुदयासङ्गकान्तं तरङ्गैरालिङ्गन्निन्दुबिम्बं गुरुभिरिव भुजैः संविधत्ते सुहृत्ताम्।

बिभ्रत्सौधान्तलेखावलयपरिगतिं मुण्डमालामिवायं सत्कूपस्तावदास्ताममृतसमरसस्वच्छविष्यन्दिताम्बुः॥ 

 

धीमां दक्षो दक्षिणः सत्यसन्धो ह्रीमांच्छूरो वृद्धसेवी कृतज्ञः। 

बद्धोत्साहः स्वामिकार्य्येष्वखेदी निर्द्दोषो यं पातु धर्म्मं चिराय॥

 

उत्कीर्ण्णा गोविन्देन॥

 

སིདྡྷཾ!

ས ཛཡཏི ཛགཏཱཾ པཏིཿ པིནཱཀཱི སྨིཏརབགཱིཏིཥུ ཡསྱ དནྟཀཱནྟིཿ། 

དྱུཏིརིབ ཏཌིཏཱཾ ནིཤི སྥུརནྟཱི ཏིརཡཏི ཙ སྥུཊཡཏྱདཤྩ བིཤྭཾ༎ 

 

སྭཡམྦྷཱུརྦྷཱུཏཱནཱཾ སྠིཏིལཡ[སམུ]ཏྤཏྟིབིདྷིཥུ པྲཡུཀྟོ ཡེནཱཛྙཱཾ བཧཏི བྷུབནཱནཱཾ བིདྷྲྀཏཡེ། 

པིཏྲྀཏྭཾ ཙཱནཱིཏོ ཛགཏི གརིམཱཎཾ གམཡཏཱ ས ཤམྦྷུརྦྷཱུཡཱནྶི པྲཏིདིཤཏུ བྷདྲཱཎི བྷབ[ཏཱཾ]༎ 

 

ཕཎམཎིགུརུབྷཱ(ར)[ཨཱཀྐ]ར[ཨཱ]ནྟིདཱུརཱབནམྲཾ སྠགཡཏི རུཙམིནྡོརྨྨཎྜལཾ ཡསྱ མཱུརྡྷྣཱཾ།

 ས ཤིརསི བིནིབདྷྣནྲནྡྷྲིཎཱིམསྠིམཱལཱཾ སྲྀཛཏུ བྷབསྲྀཛོ བཿ ཀླེཤབྷངྒཾ བྷུཛངྒཿ༎

 

ཥཥྚྱཱ སཧསྲཻཿ  སགརཱཏྨཛཱནཱཾ ཁཱཏཿ ཁཏུལྱཱཾ རུཙམཱདདྷཱནཿ ། 

ཨསྱོདཔཱནཱདྷིཔཏེཤྩིརཱཡ ཡཤཱཾསི པཱཡཱཏྤཡསཱཾ བིདྷཱཏཱ༎ 

 

ཨཐ ཛཡཏི ཛནེནྡྲཿ ཤྲཱིཡཤོདྷརྨྨནཱམཱ པྲམདབནམིབཱནྟཿ ཤཏྟྲུསཻནྱཾ བིགཱཧྱ།

བྲཎཀིསལཡབྷངྒཻཪྻྱོངྒབྷཱུཥཱཾ བིདྷཏྟེ ཏརུཎཏརུལཏཱབདྭཱིརཀཱིརྟྟཱིརྦྦིནཱམྱ༎

 

ཨཱཛཽ ཛིཏཱི བིཛཡཏེ ཛགཏཱིཾ པུནཤྩ ཤྲཱིབིཥྞུབརྡྡྷནནརཱདྷིཔཏིཿ ས ཨེབ།

པྲཁྱཱཏ ཨཽལིཀརལཱཉྪན ཨཱཏྨབངྴོ ཡེནོདིཏོདིཏཔདཾ གམིཏོ གརཱིཡཿ༎ 

 

པྲཱཙོ ནྲྀཔཱནྶུབྲྀཧཏཤྩ བཧཱུནུདཱིཙཿ སཱམྣཱ ཡུདྷཱ ཙ བཤགཱནྤྲབིདྷཱཡ ཡེན། 

ནཱམཱཔརཾ ཛགཏི ཀཱནྟམདོ དུརཱཔཾ རཱཛཱདྷིརཱཛཔརམེཤྭར ཨིཏྱུདཱུཌྷཾ༎ 

 

སྣིགྡྷཤྱཱམཱམྦུདཱབྷཻཿ སྠགིཏདིནཀྲྀཏོ ཡཛྭནཱམཱཛྱདྷཱུམཻརམྦྷོ མེགྷྱཾ མགྷོནཱབདྷིཥུ བིདདྷཏཱ གཱཌྷསམྤནྣསསྱཱཿ ། 

སཾཧརྵཱདྭཱཎིནཱིནཱཾ ཀརརབྷསཧྲྀཏོདྱཱནཙཱུཏཱངྐུརཱགྲཱ རཱཛནྭནྟོ རམནྟེ བྷུཛབིཛིཏབྷུབཱ བྷཱུརཡོ ཡེན དེཤཱཿ ༎ 

 

ཡསྱོཏྐེཏུབྷིརུནྨདདྭིཔཀརབྱཱབིདྡྷལོདྷྲདྲུམཻརུདྡྷཱུཏེན བནཱདྷྭནི དྷྭནིནདདྭིནྡྷྱཱདྲིརནྡྷྲཻརྦྦལཻཿ །

བཱལེཡཙྪབིདྷཱུསརེཎ རཛསཱ མནྡཱངྴུ སཾལཀྵྱཏེ པཪྻྱཱབྲྀཏྟཤིཁཎྜིཙནྡྲཀ ཨིབ དྷྱཱམཾ རབེརྨྨཎྜལམ༎ 

 

ཏསྱ པྲབྷོརྦྦངྴཀྲྀཏཱཾ ནྲྀཔཱཎཱཾ པཱདཱཤྲཡཱདྭིཤྲུཏཔུཎྱཀཱིརྟྟིཿ །

བྷྲྀཏྱཿ སྭནཻབྷྲྀཏྱཛིཏཱརིཥཊྐ ཨཱསཱིདྭཤཱིཡཱནྐིལ ཥཥྛིདཏྟཿ ༎ 

 

ཧིམབཏ ཨིབ གཱངྒསྟུངྒནམྲཿ པྲབཱཧཿ ཤཤབྷྲྀཏ ཨིབ རེབཱབཱརིརཱཤིཿ པྲཐཱིཡཱན།

པརམབྷིགམནཱིཡཿ ཤུདྡྷིམཱནནྭབཱཡོ ཡཏ ཨུདིཏགརིམྞསྟཱཡཏེ ནཻགམཱནཱཾ༎

 

ཏསྱཱནུཀཱུལཿ ཀུལཛཱཏྐལཏྲཱཏྶུཏཿ པྲསཱུཏོ ཡཤསཱཾ པྲསཱུཏིཿ ། 

ཧརེརིབཱངྴཾ བཤིནཾ བརཱརྷཾ བརཱཧདཱསཾ ཡམུདཱཧརནྟི༎ 

 

སུཀྲྀཏིབིཥཡིཏུངྒཾ རཱུཌྷམཱུལཾ དྷརཱཡཱཾ སྠིཏིམཔགཏབྷངྒཱཾ སྠེཡསཱིམཱདདྷཱནམ།

གུརུཤིཁརམིབཱདྲེསྟཏྐུལཾ སྭཱཏྨབྷཱུཏྱཱ རབིརིབ རབིཀཱིརྟྟིཿ སུཔྲཀཱཤཾ བྱདྷཏྟ༎ 

 

བིབྷྲཏཱ ཤུབྷྲམབྷྲངྴི སྨཱརྟྟཾ བརྟྨོཙིཏཾ སཏཱཾ།

ན བིསཾབྦཱདིཏཱ ཡེན ཀལཱབཔི ཀུལཱིནཏཱ༎ 

 

དྷུཏདྷཱིདིདྷིཏིདྷྭཱནྟཱནྷབིརྦྷུཛ ཨིབཱདྷྭརེ།

བྷཱནུགུཔྟཱ ཏཏཿ སཱདྷྭཱི ཏནཡཱཾསྟྲཱིནཛཱིཛནཏ༎

 

བྷགབདྡོཥ ཨིཏྱཱསཱིཏྤྲཐམཿ ཀཱཪྻྱབརྟྨསུ། 

ཨཱལམྦནཾ བཱནྡྷབཱནཱམནྡྷཀཱནཱམིབོདྡྷབཿ ༎  

 

བཧུནཡབིདྷིབེདྷཱ གཧྭརེ྅པྱརྠམཱརྒྒེ བིདུར ཨིབ བིདཱུརཾ པྲེཀྵཡཱ པྲེཀྵམཱཎཿ །  

བཙནརཙནབནྡྷེ སཾསྐྲྀཏཔྲཱཀྲྀཏེ ཡཿ ཀབིབྷིརུདིཏརཱགཾ གཱིཡཏྟེ གཱིརབྷིཛྙཻཿ ༎ 

 

པྲཎིདྷིདྲྀགནུགནྟྲཱ ཡསྱ བཽདྡྷེན ཙཱཀྵྞཱ ན ནིཤི ཏནུ དབཱིཡོ བཱསྟྱདྲྀཥྚཾ དྷརིཏྲྱཱམ།

པདམུདཡི དདྷཱནོ྅ནནྟརཾ ཏསྱ ཙཱབྷཱུཏྶ བྷཡམབྷཡདཏྟོ ནཱམ བིགྷྣནྤྲཛཱནཱཾ༎

 

བིནྡྷྱསྱཱབནྡྷྱཀརྨྨཱ ཤིཁརཏཊཔཏཏྤཱཎྜུརེབཱམྦུརཱཤེརྒྒོལཱངྒཱུལཻཿ སཧེལཾ པླུཏིནམིཏཏརོཿ པཱརིཡཱཏྲསྱ ཙཱདྲེཿ ། 

ཨཱ སིནྡྷོརནྟརཱལཾ ནིཛཤུཙིསཙིབཱདྡྷྱཱསིཏཱནེཀདེཤཾ རཱཛསྠཱནཱིཡབྲྀཏྱཱ སུརགུརུརིབ ཡོ བརྞྞིནཱཾ བྷཱུཏཡེ྅པཱཏ༎ 

 

བིཧིཏསཀལབརྞྞཱསངྐརཾ ཤཱནྟཌིམྦཾ ཀྲྀཏ ཨིབ ཀྲྀཏམེཏདྱེན རཱཛྱཾ ནིརཱདྷི།

ས དྷུརམཡམིདཱནཱིཾ དོཥཀུམྦྷསྱ སཱུནུརྒུརུ བཧཏི ཏདཱུཌྷཱཾ དྷརྨྨཏོ དྷརྨྨདོཥཿ ༎ 

 

སྭསུཁམནབྷིབཱཙྪནྡུརྒྒམེ྅གྷྭནྱསངྒཱཾ དྷུརམཏིགུརུབྷཱརཱཾ ཡོ དདྷདྦྷརྟུརརྠེ།

བཧཏི ནྲྀཔཏིབེཥཾ ཀེབལཾ ལཀྵྨམཱཏྲཾ བལིནམིབ བིལམྦཾ ཀམྦལཾ བཱཧུལེཡཿ༎

 

ཨུཔཧིཏཧིཏརཀྵཱམཎྜནོ ཛཱཏིརཏྣཻརྦྷུཛ ཨིབ པྲྀཐུལཱཾསསྟསྱ དཀྵཿ ཀནཱིཡཱན།

མཧདིདམུདཔཱནཾ ཁཱནཡཱམཱས བིབྷྲཙྪྲུཏིཧྲྀདཡནིཏཱནྟཱནནྡི ནིརྡྡོཥནཱམ༎

 

སུཁཱཤྲེཡཙྪཱཡཾ པརིཎཏིཧིཏསྭཱདུཕལདཾ གཛེནྡྲེཎཱརུགྞཾ དྲུམམིབ ཀྲྀཏཱནྟེན བལིནཱ། 

པིཏྲྀབྱཾ པྲོདྡིཤྱ པྲིཡམབྷཡདཏྟཾ པྲྀཐུདྷིཡཱ པྲཐཱིཡསྟེནེདཾ ཀུཤལམིཧ ཀརྨྨོཔརཙིཏཾ༎ 

 

པཉྩསུ ཤཏེཥུ ཤརདཱཾ ཡཱཏེཥྭེཀཱནྣནབཏིསཧིཏེཥུ། 

མཱལབགཎསྠིཏིབཤཱཏྐཱལཛྙཱནཱཡ ལིཁིཏེཥུ༎ 

 

ཡསྨིནྐཱལེ ཀལམྲྀདུགིརཱཾ ཀོཀིལཱནཱཾ པྲལཱཔཱ བྷིནྡནྟཱིབ སྨརཤརནིབྷཱཿ པྲོཥིཏཱནཱཾ མནཱཾསི། 

བྷྲྀངྒཱལཱིནཱཾ དྷྭནིརནུབནཾ བྷཱརམནྡྲཤྩ ཡསྨིནྣཱདྷཱུཏཛྱཾ དྷནུརིབ ནདཙྪྲཱུཡཏེ པུཥྤཀེཏོཿ ༎ 

 

པྲིཡཏམཀུཔིཏཱནཱཾ རཱམཡནྦདྡྷརཱགཾ ཀིསལཡམིབ མུགྡྷཾ མཱནསཾ མཱནིནཱིནཱམ།

ཨུཔནཡཏི ནབྷསྭཱནྨཱནབྷངྒཱཡ ཡསྨིནྐུསུམསམཡམཱསེ ཏཏྲ ནིརྨྨཱཔིཏོ྅ཡཾ༎

 

ཡཱབཏྟུངྒཻརུདནྭཱནྐིརཎསམུདཡཱསངྒཀཱནྟཾ ཏརངྒཻརཱལིངྒནྣིནྡུབིམྦཾ གུརུབྷིརིབ བྷུཛཻཿ སཾབིདྷཏྟེ སུཧྲྀཏྟཱམ།

བིབྷྲཏྶཽདྷཱནྟལེཁཱབལཡཔརིགཏིཾ མུཎྜམཱལཱམིབཱཡཾ སཏྐཱུཔསྟཱབདཱསྟཱམམྲྀཏསམརསསྭཙྪབིཥྱནྡིཏཱམྦུཿ ༎ 

 

དྷཱིམཱཾ དཀྵོ དཀྵིཎཿ སཏྱསནྡྷོ ཧྲཱིམཱཾཙྪཱུརོ བྲྀདྡྷསེབཱི ཀྲྀཏཛྙཿ ། 

བདྡྷོཏྶཱཧཿ སྭཱམིཀཱཪྻྱེཥྭཁེདཱི ནིརྡྡོཥོ ཡཾ པཱཏུ དྷརྨྨཾ ཙིརཱཡ༎

ཨུཏྐཱིརྞྞཱ གོབིནྡེན༎


བརྐོས་ཡིག་གི་བརྗོད་སྙིང་།

གྲུབ་པར་གྱུར་ཅིག  འཇིག་རྟེན་རྣམས་ཀྱི་མགོན་པོ་མདའ་གཞུ་ཅན་གང་གི་ཚེམས་ཀྱི་འོད་ཟེར་ནི་མཚན་མོ་གློག་གི་གཟི་བརྗིད་ལྟར་འཕྲོ་བས་མུན་པ་སེལ་ཞིང་འཇིག་རྟེན་ཀུན་གསལ་བར་བྱེད་དོ། །འབྱུང་པོ་རྣམས་ཀྱི་གནས་པ་དང་འཇིག་པ་དང་སྐྱེ་བའི་ཆོ་ག་ལ་རང་བྱུང་དུ་ཞུགས་ཤིང་། འཇིག་རྟེན་རྣམས་འཛིན་པའི་ཕྱིར་གང་གིས་བཀའ་ལུང་སྒྲུབ་པར་བྱེད་པ་དང་། འཇིག་རྟེན་ན་ལྕི་བའི་གནས་སུ་བཀུར་བའི་ཕ་ཡི་དངོས་པོར་མཛད་པའི་ཞི་བ་འབྱུང་བ་དེས་ཁྱེད་ཅག་ལ་དགེ་ལེགས་རྒྱ་ཆེན་པོ་སྩོལ་བར་མཛོད་ཅིག །གང་གི་དབུ་ཡིས་གདེངས་ཀའི་ནོར་བུའི་ཁུར་གྱིས་ལྕི་བས་རིང་ནས་དུད་པའི་ཟླ་བའི་དཀྱིལ་འཁོར་གྱི་འོད་ཟེར་སྒྲིབ་པར་བྱེད་ཅིང་། མགོ་བོར་རུས་པའི་ཕྲེང་བ་བཅིངས་པའི་ཀླུ་དེས་འཁོར་བའི་ལེགས་ལྡན་གྱིས་ཁྱེད་ཅག་གི་ཉོན་མོངས་པ་འཇོམས་པར་མཛོད་ཅིག །རྒྱལ་བོ་དུག་ཅན་གྱི་བུ་དྲུག་ཁྲིས་བརྐོས་པའི་ཆུ་མིག་འདི་ནི་ནམ་མཁའ་དང་མཚུངས་པའི་གཟི་བརྗིད་འཛིན་པ་སྟེ། ཆུ་ཡི་བདག་པོ་འདིའི་གྲགས་པ་རྣམས་ཡུན་རིང་དུ་སྲུང་བར་གྱུར་ཅིག །དེ་ནས་མིའི་དབང་བོ་དཔལ་ལྡན་གྲགས་པའི་ཆོས་ཞེས་བྱ་བ་རྒྱལ་བར་གྱུར་ཏེ། ནང་དུ་དགྲའི་དཔུང་ཚོགས་ལ་ལྷའི་སྐྱེད་མོས་ཚལ་བཞིན་དུ་ཞུགས་ནས། རྨ་ཡི་ལོ་མ་དུམ་བུ་ཡན་ལག་གི་རྒྱན་དུ་བྱེད་ཅིང་། ལྗོན་པའི་འཁྲི་ཤིང་གཞོན་ནུ་བཞིན་དུ་དཔའ་བོའི་གྲགས་པ་རྣམས་འདུད་པར་བྱེད་དོ། །གཡུལ་ངོར་རྒྱལ་བས་སླར་ཡང་འཇིག་རྟེན་ལ་རྣམ་པར་རྒྱལ་བའི་མིའི་བདག་པོ་དཔལ་ཁྱབ་འཇུག་འཕེལ་བ་དེ་ཉིད་ནི། རང་གི་རིགས་ལ་ཨོ་ལི་ཀ་རའི་རི་མོའི་མཚན་མ་གྲགས་པ་དེས་མཆོག་ཏུ་འཕགས་པའི་གོ་འཕང་ལ་བཀོད་དོ། །གང་གིས་ཤར་ཕྱོགས་ཀྱི་རྒྱལ་བོ་ཤིན་ཏུ་ཆེ་བ་མང་བོ་དང་བྱང་ཕྱོགས་པ་རྣམས་ཀྱང་མཐུན་པའི་གཏམ་དང་གཡུལ་གྱིས་དབང་དུ་བསྡུས་ནས། འཇིག་རྟེན་ན་ཁྱབ་འཇུག་གི་ཆ་ཤས་ལྟ་བུ་དབང་དུ་སྒྱུར་བ་དང་། མཆོག་ཏུ་འོས་པ། ཕག་པའི་བྲན་དུ་གྲགས་པ། དགེ་བའི་ལས་ཀྱི་ཡུལ་དུ་མཐོ་ཞིང་རྩ་བ་བརྟན་པར་ཚུགས་པ། ས་གཞི་ལ་གནས་པ་ལ་ཉམས་པ་མེད་ཅིང་ཤིན་ཏུ་བརྟན་པའི་གནས་འཛིན་པ། རི་བོའི་རྩེ་མོ་ལྟར་ལྕི་བའི་རིགས་དེ་ནི། ཉི་མ་ལྟ་བུའི་ཉི་མའི་གྲགས་པས་རང་གི་འབྱོར་བས་ཤིན་ཏུ་གསལ་བར་མཛད་དོ། །གང་གིས་དམ་པ་རྣམས་ཀྱི་ལུགས་དང་མཐུན་ཞིང་། ནམ་ཡང་ཉམས་པ་མེད་པའི་དྲན་པའི་ལམ་དཀར་བོ་འཆང་བས། རིག་བྱེད་ཀྱི་དུས་སུ་ཡང་རིགས་བཟང་བ་ལ་འགལ་བ་མེད་པར་མཛད་དོ། །དེ་ནས་མཆོད་སྦྱིན་གྱི་མེ་ལྟ་བུའི་མཁས་པའི་འོད་ཟེར་གྱི་མུན་པ་བསལ་བ། ཉི་མས་བསྲུངས་པའི་ཆུང་མ་དམ་པ་དེས་བུ་གསུམ་བསྐྱེད་དེ། ལས་ཀྱི་ལམ་རྣམས་ལ་ཐོག་མར་ལེགས་ལྡན་གྱི་སྐྱོན་ཞེས་བྱ་བར་གྱུར་ཏོ། །མུན་པ་ཅན་རྣམས་ཀྱི་རྟེན་དུ་འཕགས་སྐྱེས་པོ་ལྟ་བུ་དང་། ལམ་གྱི་འཇུག་པ་མང་བོའི་ཆོ་ག་མཁྱེན་པའི་ཐུབ་པ་ལྟར། དོན་གྱི་ལམ་ཟབ་མོ་ལ་རྒྱང་རིང་བོ་ནས་གཟིགས་པས་ལྟ་བར་བྱེད་པ། ཚིག་གི་སྦྱོར་བ་ལེགས་སྦྱར་དང་རང་བཞིན་པའི་སྐད་ལ་མཁས་པའི་སྙན་ངག་མཁན་རྣམས་ཀྱིས་ཆགས་པ་དང་བཅས་པར་བསྔགས་པ་དེའོ། །གང་གི་སྤྱན་གྱི་རྗེས་སུ་འབྲང་བའི་སངས་རྒྱས་པའི་སྤྱན་གྱིས་མཚན་མོ་ཡང་ས་གཞི་ལ་ཤིན་ཏུ་རིང་བའི་གནས་མ་གཟིགས་པ་མེད་ཅིང་། དེའི་རྗེས་སུ་འབྱུང་བ་འཇིགས་པ་མེད་པར་སྦྱིན་པ་ཞེས་བྱ་བའི་རྒྱལ་བོ་རྣམས་ཀྱི་བར་ཆད་མེད་པར་གྱུར་ཏོ། །རི་བོ་འབིགས་བྱེད་ཀྱི་རྩེ་མོའི་ངོས་ནས་ལྷུང་བའི་ཆུ་གཏེར་གྱི་ནང་དུ་སྤྲེའུ་རྣམས་དང་ལྷན་ཅིག་རྩེ་དགའ་དང་བཅས་ཏེ་མཆོངས་ཤིང་ལྗོན་པ་བཏུད་པར་བྱེད་པའི་རི་བོ་པཱ་རི་ཡཱ་ཏྲ་དང་། ཆུ་བོ་སིནྡྷུའི་བར་གྱི་ས་ཕྱོགས་དུ་མ་རང་གི་བློན་པོ་གཙང་མ་རྣམས་ལ་བསྒོས་ཏེ། ལྷའི་བླ་མ་ཕུར་བུ་ལྟར་བྲམ་ཟེ་རྣམས་ཀྱི་ཕན་བདེའི་ཕྱིར་རྒྱལ་བོའི་གནས་ཀྱི་དེའི་ཚེ་ཚིག་འཇམ་ཞིང་སྙན་པའི་ཁུ་བྱུག་རྣམས་ཀྱི་སྒྲ་དབྱངས་ནི། འདོད་ཆགས་ཀྱི་མདའ་ལྟ་བུས་ཡུལ་གཞན་དུ་གནས་པ་རྣམས་ཀྱི་སེམས་གཅོད་པ་བཞིན་ནོ། །བུང་བའི་ཚོགས་ཀྱི་སྒྲ་ནི་ནགས་ཚལ་ཀུན་ཏུ་ཟབ་ཅིང་དམའ་བར་གྲགས་པ་སྟེ། དེ་ནི་མེ་ཏོག་གི་རྒྱལ་མཚན་ཅན་གྱི་གཞུ་རྒྱུད་བརྡུངས་པ་བཞིན་དུ་སྒྲོག་པར་ཐོས་སོ། །མེ་ཏོག་གི་དུས་ཀྱི་ཟླ་བ་དེར་རླུང་གིས་ནི་བུད་མེད་ང་རྒྱལ་ཅན་རྣམས་ཀྱི་ཡིད་འདོད་ཆགས་ཀྱིས་བཅིངས་ཤིང་མཛེས་པའི་ལོ་མ་གསར་བ་ལྟ་བུ་དེ་དགའ་བར་བྱེད་ཅིང་། ང་རྒྱལ་བཅག་པའི་ཕྱིར་དུ་ཉེ་བར་སྦྱོར་བར་བྱེད་དོ། །ཇི་སྲིད་རྒྱ་མཚོ་ཆེན་པོ་དེས་ཟླ་བའི་དཀྱིལ་འཁོར་འོད་ཟེར་འཕྲོ་བས་མཛེས་པ་དེ་ལ། རླབས་ཆེན་པོ་རྣམས་ཀྱིས་ཕྱག་ལྟར་འཁྱུད་དེ་མཛའ་བཤེས་ཀྱི་དངོས་པོ་སྒྲུབ་པ་དང་། ཁང་བཟང་གི་མཐའ་སྐོར་གྱི་རི་མོའི་ཕྲེང་བ་ནི་ཐོད་པའི་ཕྲེང་བ་ལྟ་བུར་འཛིན་པ་དེ་སྲིད་དུ། བཟང་བོའི་ཁྲོན་པ་འདི་ནི་བདུད་རྩི་དང་མཚུངས་པའི་རོ་དང་ལྡན་ཞིང་དྭངས་པའི་ཆུ་འབབ་པར་གྱུར་ཅིག །
རྐོ་བ་བོ་ནི་གོ་བིནྡའོ། །

དཔྱད་གཞིའི་དཔེ་ཐོ།

  1. Fleet, John Faithfull, Inscriptions of the Early Gupta Kings and Their Successors. Calcutta: Superintendent of Government Printing, 1888. 
  2. Bhandarkar, Devadatta Ramakrishna, A List of the Inscriptions of Northern India in Brahmi and its derivative Scripts, from about 200 A. C. (Appendix to Epigraphia Indica volumes XIX to XXIII). Calcutta: University of Calcutta, 1929. 
  3. Sircar, Dines Chandra, Select Inscriptions Bearing on Indian History and Civilization. Volume I: From the Sixth Century B.C. to the Sixth Century A.D. (Second Edition). Calcutta: University of Calcutta,1965.